Shrimad Bhagawad Geeta - Adhyay 15

Shrimad Bhagawad Geeta - Adhyay 15

श्रीभगवानुवाचbr ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम्‌ ।br छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्‌ ॥br अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।br अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥br न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।br अश्वत्थमेनं सुविरूढमूल मसङ्‍गशस्त्रेण दृढेन छित्त्वा ॥br ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।br तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥br भावार्थ : उसके पश्चात उस परम-पदरूप परमेश्वर को भलीभाँति खोजना चाहिए, जिसमें गए हुए पुरुष फिर लौटकर संसार में नहीं आते और जिस परमेश्वर से इस पुरातन संसार वृक्ष की प्रवृत्ति विस्तार को प्राप्त हुई है, उसी आदिपुरुष नारायण के मैं शरण हूँ- इस प्रकार दृढ़ निश्चय करके उस परमेश्वर का मनन और निदिध्यासन करना चाहिए॥4॥br निर्मानमोहा जितसङ्गदोषाअध्यात्मनित्या विनिवृत्तकामाः ।br द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्‌ ॥5॥br न तद्भासयते सूर्यो न शशाङ्को न पावकः ।br यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥br श्रीभगवानुवाचbr ममैवांशो जीवलोके जीवभूतः सनातनः ।br मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥br शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।br गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्‌ ॥br श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।br अधिष्ठाय मनश्चायं विषयानुपसेवते ॥br उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्‌ ।br विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥br यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्‌ ।br यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥br यदादित्यगतं तेजो जगद्भासयतेऽखिलम्‌ ।br यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्‌ ॥br गामाविश्य च भूतानि धारयाम्यहमोजसा ।br पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥br अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।br प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्‌ ॥br सर्वस्य चाहं हृदि सन्निविष्टोमत्तः स्मृतिर्ज्ञानमपोहनं च ।br वेदैश्च सर्वैरहमेव वेद्योवेदान्तकृद्वेदविदेव चाहम्‌ ॥br द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।br क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥br उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।br यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥br यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।br अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥br यो मामेवमसम्मूढो जानाति ...br br br br br NOTE: ALL COPY RIGHTS VEST WITH ITS TRUE OWNER. NO COPYRIGHT VIOLATIONS OR COPYRIGHT INFRINGEMENT ARE INTENDED.


User: Chitralekha Dixit

Views: 3

Uploaded: 2015-06-28

Duration: 08:55

Your Page Title