श्री दत्तस्तवस्तोत्र | Shri Datta Stavam Stotram With Lyrics | Datta Jayanti 2021 | Rajshri Soul

श्री दत्तस्तवस्तोत्र | Shri Datta Stavam Stotram With Lyrics | Datta Jayanti 2021 | Rajshri Soul

Listen Shri Datta Stavam Stotram With Lyrics | श्री दत्तस्तवस्तोत्र | Popular Devotional Songsbr br Lyrics : श्रीदत्तस्तवस्तोत्रम् br br भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ।br दूरादेव पलायन्ते दत्तात्रेयं नमामि तम् ॥ १॥br br यन्नामस्मरणाद्दैन्यं पापं तापश्च नश्यति ।br भीतिग्रहार्तिदुःस्वप्नं दत्तात्रेयं नमामि तम् ॥ २॥br br दद्गुस्फोटककुष्ठादि महामारी विषूचिका ।br नश्यन्त्यन्येऽपि रोगाश्च दत्तात्रेयं नमामि तम् ॥ ३॥br br सङ्गजा देशकालोत्था अपि साङ्क्रमिका गदाः ।br शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तम् ॥ ४॥br br सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम् ।br यन्नाम शान्तिदं शीघ्रं दत्तात्रेयं नमामि तम् ॥ ५॥br br त्रिविधोत्पातशमनं विविधारिष्टनाशनम् ।br यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तम् ॥ ६॥br br वैर्यादिकृतमन्त्रादिप्रयोगा यस्य कीर्तनात् ।br नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तम् ॥ ७॥br br यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ।br य ईशः सर्वतस्त्राता दत्तात्रेयं नमामि तम् ॥ ८॥br br जयलाभयशःकामदातुर्दत्तस्य यः स्तवम् ।br भोगमोक्षप्रदस्येमं पठेद्दत्तप्रियो भवेत् ॥ ९॥br br इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तस्तवस्तोत्रं सम्पूर्णम् ।br


User: RajshriSoul

Views: 34

Uploaded: 2021-12-18

Duration: 26:52

Your Page Title