Kaupina Panchakam With Lyrics | Yati Panchakam | Sri Adi Shankaracharya | Rajshri Soul

Kaupina Panchakam With Lyrics | Yati Panchakam | Sri Adi Shankaracharya | Rajshri Soul

Presenting Kaupina Panchakam With Lyrics | Yati Panchakam | Sri Adi Shankaracharya | Rajshri Soulbr br Lyrics :br वेदान्तवाक्येषु सदा रमन्तोbr भिक्षान्नमात्रेण च तुष्टिमन्तः ।br विशोकवन्तः करणैकवन्तःbr कौपीनवन्तः खलु भाग्यवन्तः ॥ १॥br br मूलं तरोः केवलमाश्रयन्तःbr पाणिद्वयं भोक्तुममत्रयन्तः ।br कन्थामिव श्रीमपि कुत्सयन्तःbr कौपीनवन्तः खलु भाग्यवन्तः ॥ २॥br br देहादिभावं परिमार्जयन्तbr आत्मानमात्मन्यवलोकयन्तः ।br नान्तं न मध्यं न बहिः स्मरन्तःbr कौपीनवन्तः खलु भाग्यवन्तः ॥ ३॥br br स्वानन्दभावे परितुष्टिमन्तःbr संशान्तसर्वेन्द्रियदृष्टिमन्तः ।br अहर्निशं ब्रह्मणि ये रमन्तःbr कौपीनवन्तः खलु भाग्यवन्तः ॥ ४॥br br पञ्चाक्षरं पावनमुच्चरन्तःbr पतिं पशूनां हृदि भावयन्तः ।br भिक्षाशना दिक्षु परिभ्रमन्तःbr कौपीनवन्तः खलु भाग्यवन्तः ॥ ५॥br br इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यbr श्रीगोविन्दभगवत्पूज्यपादशिष्यस्यbr श्रीमच्छङ्करभगवतः कृतौbr यतिपञ्चक सम्पूर्णम् ॥br


User: RajshriSoul

Views: 7

Uploaded: 2022-05-02

Duration: 13:07

Your Page Title