शनैश्चरस्तोत्रम् | Shani Stotram | शनैश्चराष्टकम् | दशरथ प्रोक्तम | With Lyrics #shanidev

शनैश्चरस्तोत्रम् | Shani Stotram | शनैश्चराष्टकम् | दशरथ प्रोक्तम | With Lyrics #shanidev

शनैश्चरस्तोत्रम् | Shani Stotram | शनैश्चराष्टकम् | दशरथ प्रोक्तम | With Lyrics #shanidev @Mere Krishna br br #shanidev #shani #shanistotram #shanistotra #शनि #शनिदेव #शनिवार #शनिवारस्पेशल br br शनैश्चरस्तोत्रम् br br ॥ श्रीगणेशाय नमः ॥ br br अस्य श्रीशनैश्चरस्तोत्रस्य । दशरथ ऋषिः । शनैश्चरो देवता । त्रिष्टुप् छन्दः ॥ शनैश्चरप्रीत्यर्थ जपे विनियोगः । br br दशरथ उवाच ॥ br कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगलमन्दसौरिः । नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ॥ १॥ br br सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगाश्च । br पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ २॥ br br नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृङ्गाः । br पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ ३॥ br br देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि । br पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ ४॥ br br तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा । br प्रीणाति मन्त्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय ॥ ५॥ br br प्रयागकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् । br यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय ॥ ६॥ br br अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात् । br गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय ॥ ७॥ br br स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी । br एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै नमः श्रीरविनन्दनाय ॥ ८॥ br br शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च । br पठेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते ॥ ९॥ br br कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः । br सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ॥ १०॥ br br एतानि दश नामानि प्रातरुत्थाय यः पठेत् । br शनैश्चरकृता पीडा न कदाचिद्भविष्यति ॥ ११॥ br br ॥ इति श्रीब्रह्माण्डपुराणे श्रीशनैश्चरस्तोत्रं सम्पूर्णम् ॥


User: Mere Krishna

Views: 29

Uploaded: 2025-05-17

Duration: 05:27

Your Page Title