श्रीकृष्ण चरितम् | Shri Krishna Charitam | श्रीकृष्ण जन्माष्टमी पर अवश्य सुनें #krishna

श्रीकृष्ण चरितम् | Shri Krishna Charitam | श्रीकृष्ण जन्माष्टमी पर अवश्य सुनें #krishna

श्रीकृष्ण चरितम् | Shri Krishna Charitam | श्रीकृष्ण जन्माष्टमी पर अवश्य सुनें #krishna @Mere Krishna br br श्रीकृष्णचरितम् br br वसुदेव-देवकी-नन्द-यशोदानन्ददायकम् ।br वन्दे योगीश्वरं कृष्णं गीतापीयूषदायकम् ॥ १॥br br कंस-कारागृहे जन्म यस्य बाल्यं च गोकुले ।br द्वारकायां कर्मयोगस्तं कृष्णं प्रणमाम्यहम् ॥ २॥br br पूतना-धेनुकादीन् यः कंस-प्रेरित-राक्षसान् ।br जघान लीलया वन्दे तमहं यदु-नन्दनम् ॥ ३॥br br गोकुलं बाललीलाभिस्तोषयन्तं सुरेश्वरम् ।br रक्षन्तं धेनुपान् धेनूर्नमाम्यच्युतमीश्वरम् ॥ ४॥br br सान्दीपनिं गुरुं भक्त्या यस्तुतोष यदूत्तमः ।br शिष्योत्तमं तमादर्शं वन्देऽहं भक्तितः सदा ॥ ५॥br br पार्थान् युधिष्ठिरादीन् यः सत्यधर्मपथे स्थितान् ।br आधारं दत्तवान् तस्मै दीनाधाराय ते नमः ॥ ६॥br br मोहपङ्के निमग्नं तं विषीदन्तं रणेऽर्जुनम् ।br कर्तव्यं यो दिदेशस्तं यदुश्रेष्ठं नमाम्यहम् ॥ ७॥br br सतां संरक्षणार्थाय दुष्टान् दण्डयितुं तथा ।br स्वर्गादवातरद् यो वै तस्मै कृष्णाय ते नमः ॥ ८॥br br शिशुपाल-जरासन्ध-कंस-चाणूर-मुष्टिकान् ।br योऽहन् नमामि तं कृष्णं राजनीतिविशारदम् ॥ ९॥br br पाण्डवा रक्षिता येन समाश्वस्ता च द्रौपदी ।br निहताः कौरवास्तस्मै गोविन्दाय नमो नमः ॥ १०॥br br यो वेदोपनिषत्सारं गीताख्यं जगते ददौ ।br तस्मै पूर्णावताराय श्रीकृष्णाय नमो नमः ॥ ११॥br br शङ्क-चक्र-गदा-पद्म-धारिणं श्यामसुन्दरम् ।br श्रीकृष्णं सगुणं द्रष्टुं काङक्षते मम मानसम् ॥ १२॥br br विश्वाधारं वासुदेवं सर्वव्यापिनमीश्वरम् ।br सच्चिदानन्दमूर्ति त्वां वन्देऽहं सादरं प्रभो ॥ १३॥br br श्रीकृष्णचरितं दिव्यं श्रुत्वाऽऽचरति यस्तथा ।br सफलं जन्म तस्यास्ति निश्चिताऽत्र मतिर्मम ॥ १४॥br br इति श्री आपटीकरविरचितं श्रीकृष्णचरितं सम्पूर्णम् ।


User: Mere Krishna

Views: 5

Uploaded: 2025-09-03

Duration: 05:33

Your Page Title